SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः अथाऽऽमन्त्रणप्रकारः-विल्वाभ्यासं गत्वा, विल्वं सम्पूज्य, नाममन्त्रेण विल्ववृक्षे दुर्गा च सम्पूज्य प्रार्थयेत् । तत्र मन्त्रः "रावणस्य वधार्थाय रामस्यानुग्रहाय च । अकाले ब्रह्मणा बोधो देव्यास्तव कृतः पुरा ॥ अहमप्याश्रितः षष्ठ्यां सायाह्ने बोधयाम्यतः ।" अथाऽऽमन्त्रणमन्त्रः"श्रीशैलशिखरे जातः श्रीफल ! श्रीनिकेतनः । नेतव्योऽसि मया वृक्ष ! पूज्यो दुर्गाखरूपतः ॥” इति । आनयनप्रकारः सप्तम्या वक्ष्यते । कार्तिक शुक्लषष्ठयां वह्निपूजोक्ता कालादर्श मत्स्यपुराणे "वृश्चिकार्के शुक्लषष्ठी भौमवारेऽप्युपस्थिते । महाषष्ठीति सा प्रोक्ता सर्वपापहरा तिथिः ॥ तस्यां स्वपिति वै वह्निः पूर्वत्रोपोष्य वै दिने । षष्ठयां वह्नि समभ्यर्च्य कुर्याद्वह्निमहोत्सवम् ॥” इति । वृश्चिकार्के कार्तिक इति तत्रैव व्याख्यातम् । मार्गशुक्लषष्ठी योगविशेषेण चम्पाषष्ठी। तदुक्तं मल्लारिमाहात्म्ये मार्गे भाद्रपद शुक्ला षष्ठी वैधृतिसंयुता । रविवारेण संयुक्ता सा चम्पेतीह कीर्तिता ॥ वैधृतियोगकथनं तु भाद्रशुक्लषष्ठ्यभिप्रायेण, अस्यां वैधृतियोगस्य सर्वथासम्भवात् । अस्यां विश्वेश्वरदर्शनमुक्तं तत्रैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy