________________
तिथ्यर्कः "तद्वद्भाद्रपदे मासि पष्ठी पक्षे सितेतरे ।
चन्द्रषष्ठीव्रतं कुर्यात् पूर्ववेधः प्रशस्यते ॥” इति । इयं चन्द्रोदयव्यापिनी ग्राह्या । हलषष्ठ्यपीयम् । सा सप्तमीयुता ग्राह्येति ग्रन्थान्तरे। भाद्रशुक्लपष्ठी सूर्यषष्ठी। अस्यां भास्करपूजनं महाफलम् । तदुक्तं निर्णयामृते भविष्योत्तरे
"शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम् ।
प्राशनं पञ्चगव्यस्य अश्वमेधफलप्रदम् ॥” इति । अस्यामेव दक्षिणापथस्थकार्तिकेयदर्शनफलमुक्तं तत्रैव
"येयं भाद्रपदे मासि षष्ठी स्याद्भरतर्षभ ! । यं पापहरा पुण्या शिवा शान्ता शुभा नृप !॥ स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते । अस्यां पश्यन्ति गाङ्गेय दक्षिणापथमाश्रितम् ।।
ब्रह्महत्यादिपापैस्तु मुच्यन्ते नात्र संशयः ।" इति । आश्विनशुक्लषष्ठयां दिवसत्रयसाध्यं पूजाङ्गत्वेन विल्वाभिमन्त्रणं कुर्यात् । तदुक्तं देवीपुराणे
"ज्येष्ठानक्षत्रयुक्तायां षष्ठयां विल्वाभिमन्त्रणम् । सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ॥ पूर्वाषाढयुताष्टभ्यां पूजाहोमाधुपोषणम् । उत्तरेण नवम्यां तु बलिभिः पूजयेच्छिवाम् ॥ श्रवणेन दशम्यां तु प्रणिपत्य विसर्जयेत् ।" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com