SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः इति स्कान्दात् । अस्यां स्कन्दपूजोक्ता वराहपुराणे "आषाढशुक्लषष्ठी तु तिथिः कौमारिका स्मता । कुमारमर्चयेत्तत्र पूर्वत्रोपोष्य वै दिने ।" इति । भाद्रकष्णषष्ठी रोहिणीव्यतीपातभौमवारैर्युक्ता कपिलेत्युच्यते । तदुक्तं समयमयूखे वराहपुराणे "नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराणज्ञैः कपिला सा प्रकीर्तिता ।। व्रतोपवासनियमैर्भास्करं तत्र पूजयेत् । कपिलां च द्विजाग्याय दत्वा या क्रतुफलं लभेत् ॥” इति । पुराणसमुच्चयेऽपि "भाद्रे मास्यसिते पक्षे भानौ चैव करे स्थित । पाते कुजे च रोहिण्यां सा पष्ठी कपिला भवेत् ।। संयोगे तु चतुर्णा तु निर्दिष्टा परमेष्ठिना।" इति । भाद्रोत्र अमातो बोध्यः, चान्द्रमासस्य सर्वकार्येषु मुख्यत्वात्, पूर्णिमान्तभाद्रकृष्णषष्ठयां व्यतीपातपातासम्भवाच्च । अत्र सूर्यस्य हस्तस्थितत्व' सति सम्भवे ज्ञेयम्, चतुण्णां मित्युपादानात् । अन्यथा वचने पञ्चानामित्युक्तं स्यात् । चतुर्वप्येकन्यूनत्वे कपिलषष्ठी न भवति, चतुर्णा संयोग इत्यक्तेः । इयमेव चन्द्रषष्ठीत्युक्तं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy