SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः पञ्चम्यादिवेधस्तत्रैव "नागो द्वादशनाडीभिर्दिकपञ्चदशभिस्तथा । भूतोऽष्टादशनाडीभिषयत्युत्तरां तिथिम् ॥” इति। नागः पञ्चमी। भृतश्चतुर्दशी। दिग दशमी । नाड्यो घटिकाः । अयं विशेषवेध उत्तरतिथिविषयः । सामान्यविहितस्तु त्रिमुहुर्तवेधः पूर्वतिथिविषयः । तदुक्तं कार्म "चतुर्दशी पञ्चमी च तथा च दशमी तिथिः । पूर्वी तिथिं दूषयन्ति त्रिभिरेव मुहूर्त्तकैः ॥” इति । यदा तिथिक्षयवसादुत्तरविद्धा न लभ्यते, तदा स्कन्दव्रतवद् व्रतान्तरमपि नागविद्धायां कार्यम् । तदाह माधवीये वसिष्ठः "एकादशी तृतीया च षष्ठी चैव त्रयोदशी । पूर्वविद्धा तु कर्तव्या यदि न स्यात्परेऽहनि ॥" इति । उपवासेऽपि परैव, 'एकादशाष्टमी' इति पूर्वादाहृतवचनात् । सामान्यतः सर्वष ठ्यां रविवारयोगे लोलार्कयात्रा कार्या । "कृतानि यानि पापानि नरैः संवत्सरादपि । नश्यन्ति क्ष गतस्तानि षष्ठ्यर्के लोलदर्शनात् ॥" इति काशीखण्डे उक्तत्वात् । लाला लोलार्कः । आपाढशुक्लषष्ठी स्कन्दपष्ठी । सा पञ्चमीयुता कार्या, "कृष्णाष्टम। स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy