SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: मार्गशुक्ला पञ्चम्यपि नागपञ्चमी । तदुक्तं हेमाद्रौ स्कान्दे " शुक्ले मार्गशिरे पुण्या श्रावणे या च पञ्चमी । स्नानदानैर्बहुफला नागलेोकप्रदायिनी ॥” इति । इयं च 'पञ्चमी नागपूजायां कार्या षष्ठीसमन्विता' इति पूर्वोक्तचमत्कार चिन्तामणिचनात् परयुता ग्राह्या । माघशुक्लपञ्चमी श्रीपञ्चमी । तत्र श्रीपूजा कार्या । तदुक्तं हेमाद्रौ वाराहे १४ "माघशुक्लचतुर्थ्यां तु वरमाराध्य च श्रियः । पञ्चम्यां कुन्दकुसुमैः पूजां कुर्यात्समृद्धये ॥” इति । अत्र मदनं सम्पूज्य वसन्तोत्सवः कार्यः । तदुक्तं निर्णयामृते पुराणसमुच्चये " माघमासे नृपश्रेष्ठ ! शुक्लायां पञ्चमीतिथौ । रतिकामा तु सम्पूज्य कर्तव्यः सुमहोत्सवः || दानानि च प्रदेयानि तेन तुष्यति माधवः ।" पञ्चमी गुरुवारेण सिद्धा । शनिवारेण विरुद्धा | योगिन्यत्र दक्षिणस्याम् । इति पञ्चमी निर्माता 1 अथ षष्ठी निर्णीयते । सा स्कन्दवतातिरिक्ता सप्तमीयुता कार्या । तदुक्तं स्कान्दे "नागविद्धा न कर्तव्या षष्ठी चैव कदाचन । सप्तमीसंयुता कार्या षष्ठी धर्मार्थचिन्तकैः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy