SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: ६-८ अशोक कलिकाप्राशनं त्वियं नक्षत्रवशात्पूर्वा परा वा ग्राह्या । नक्षत्रायेोगेऽपि केवलाष्टम्यां कार्यम्, " तिथिः शरीरं तिथिरेव कारण तिथिः प्रमाणं तिथिरेव साधनम् ॥” इति लल्लोक्तः । एतेन नक्षत्रायोगे कर्मलोप इत्युक्तं सिन्धु कारज्येष्ठैस्तदपास्तम् । विशेषस्तिथितत्त्वे कालिकापुराणे "चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः । स्नायाहित्यायेषु स याति ब्रह्मणः पदम् ॥” इति । लौहित्यो ब्रह्मणः पुत्रः । स्नानमन्त्रस्तत्रैव "ब्रह्मपुत्र ! महाभाग ! शन्तनोः कुलसम्भव ! । अमोघगर्भसम्भूत! पापं लौहित्य ! मे हर ॥” इति । युक्तेयं प्रशस्तेत्युक्तं पृथ्वीचन्द्रोदये पुनर्वसुबुधवाराभ्यः विष्णुना " पुनर्वसुधाता चैत्रे मासि सिताष्टमी । प्रातस्तु विधिवत्स्नात्वा वाजपेयफलं लभेत् ॥” इति । वैशाखशुकाष्टम्याभाम्ररसेन स्नानमुक्तं निर्णयामृते देवीपुराणे"सहकार फलैः स्नानं वैशाखे ह्यष्टमीदिने । आत्मना देवतां स्नाप्य मांसीवालकवारिभिः ॥" * ब्रह्मपुत्र इति प्रसिद्धो नदविशेषः । तस्य ब्रह्मपुत्रत्वं तु कालिकापुराणात् ( श्र० ८४, ८५ ) अवगन्तव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy