________________
तिथ्यर्कः मांसी जटामांसी। बालकमुशीरम् । तत्रैव संवत्सरमदीपे
"देव्याः पूजां चं कुर्वीत केतक्या चम्पकेन च । शर्कराक्षीरनैवेद्यं कन्याविप्रेषु भोजनम् ॥ आत्मनः पारणं तद्वद् दक्षिणां शक्तितो ददेत् । सर्वतीर्थाभिषेकन्तु अनेनामोति भार्गव ! ॥" इति ।
अथ ज्येष्ठकृष्णाष्टम्यां त्रिलोचनपूजनमीशलोकप्रदमुक्तं भविज्योत्तरे
"ज्येष्ठे मासि द्विजश्रेष्ठ ! कृष्णाष्टम्यां त्रिलोचनम् ।
यः पूजयति देवेशमीशलोकं ब्रजेन्नरः ॥ इति । ज्येष्ठशुक्लाष्टम्यां शुक्लां देवीं पूजयेदित्युक्त निर्णयामृते ब्रह्मपुराणे
"शुक्लाष्टम्यां पुरा जाता शुक्ला देवी महानिशि ।
वधाय दानवेन्द्राणां शुक्लपक्षे ततो यजेत् ॥” इति । आषाढशुक्लाष्टम्यां महिषघ्नी देवीं पूजयेदित्युक्तं देवीपुराणे
"अष्टम्यां च तथाऽऽषाढे निशातायेन स्नापयेत् । स्वयं स्नात्वा च कपूरैश्चन्दनैस्तां विलेपयेत् ।। भक्ष्यान शर्करया पूर्णान्पानकानि शुभानि च ।
शक्तितो दक्षिणां दद्यान्महिषघ्नीं च कीर्तयेत् ॥” इति । निशा हरिद्रा । अत्र सामान्यनिर्णये। ज्ञेयः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com