SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः ७१ "अहर्निशं योगिगणैकवन्यं कृष्णाङघ्रियुग्मं विमलं प्रणम्य । विभाव्य मात महसम्प्रदाय कष्णाष्टमीनिर्णयमातनोमि ॥" श्रावणकपणाष्टमी कप्णजन्माष्टमीत्युच्यते । तदुक्तं स्कान्दे "अष्टमी श्रावणे मासि कष्णपक्षे यदा भवेत् । कृष्णजन्माष्टमी ज्ञेया महापातकनाशिनी ॥” इति । इयमद्ररात्रव्यापिनी ग्राह्या । तदुक्तं भविष्योत्तरे 'मासि भाद्रपदेऽष्टम्यां कष्णपक्षेऽर्द्धरात्रके । शशाङ्क पराशिस्थे ऋक्ष रोहिणिसंज्ञिते ।। योगेऽस्मिन् नसुदेवाद्धि देवकी मामजीजनत् । तस्मान्मा पूजयेत्तत्र शुचिः सम्यगुपोपितः ॥” इति । पुराणसमुच्चयेऽपि "श्रावणे बा ले पक्षे कष्णजन्माष्टमीव्रतम् । रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम् ॥” इति । श्रावणपदमत्रामात्मासपरम् । अत्र दिनद्वयसत्त्वेऽसत्त्वे वा "किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा" इति नवमीयोगप्राशस्त्यात् : "वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी" इति सप्तमीयोगनिषेधाच्च पर युतैव ग्राह्या । इयमेव रोहिणीयुक्ता जयन्तीत्युच्यते । तदुक्तं वह्निपुराणे "कृष्णाष्टम्मां भवेद्यत्र कलैका रोहिणी यदि । जयन्ती नाम सा प्रोक्ता उपोष्या सा प्रयत्नतः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy