SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः स्कान्देऽपि "प्राजापत्येन संयुक्ता अष्टमी तु यदा भवेत् । श्रावणे बहुले सा तु सर्वपापप्रणाशिनी ॥ जयं पुण्यं च कुरुते जयन्तीं तां विदुर्बुधाः" इति । अयं च रोहिणीयोगो अर्द्धरात्र एव मुख्यः। तदुक्तं वसिष्ठेन "अष्टमी रोहिणीयुक्ता निश्यः दृश्यते यदि । मुख्यकालः स विज्ञेयस्तत्र जातः स्वयं हरिः ॥" इति । भविष्येऽपि "रोहिण्यामर्द्धरात्रे च यदा कष्णाष्टमी भवेत् । तस्यामभ्यर्चनं शारेहन्ति पापं त्रिजन्मजम् ॥" विष्णुधर्मोत्तरे च "प्राजापत्यसंसंयुक्ता कृष्णा नभसि चाष्टमी । सोपवासो हरेः पूजां कृत्वा तत्र न सीदति ॥ अर्द्धरात्रे तु योगोऽयं तारापत्युदये सति ।" इति । तथा तत्रैव "समं योगे तु रोहिण्या निशीथे राजसत्तम !। समजायत गोविन्दो बालरूपी चतुर्भुजः ॥ तस्मात्तं पूजयेत्तत्र निशीथे राजसत्तम ! ।" इति । यदा कदाचिदीषद्योगस्त्वनुकल्पः । स च वसिष्ठसंहितायां प्रदर्शितः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy