SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "अहोरात्रं तयोोगो ह्यसम्पूर्णा भवेद्यदि । मुहूर्तमप्यहोरात्रे योगश्चेत् तामुपोषयेत् ॥” इति । पुराणान्तरेऽपि "रोहिणी च यदा कष्णपक्षेऽष्टम्यां द्विजोत्तम ! । जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥ वासरे वा निशायां वा यत्र स्वल्पापि रोहिणी । विशेषेण नभोमासे सैवोपोष्या मनीषिभिः ॥” इति । इयमपि चतुर्दा भिद्यते । पूर्वेधुरेव निशीथयोगवती । परेधुरेव तादृशी। उभयत्रापि तादृशी । उभयनिशीथायोगवती चेति । तत्र या पूर्वेधुरेव निशीथयोगवती सैवोपोष्या । तदुक्तं वह्निपुराणे "सप्तमीसंयुताष्टम्यां निशीथे रोहिणी यदि । भविता साऽष्टमी पुण्या यावच्चन्द्रदिवाकरौ ॥” इति । गारुडेऽपि "जयन्त्यां पूर्वविद्धायामुपवासं समाचरेत् ।" इति । अवशिष्टेषु विष्वपि पक्षेषु परदिन एवोपवासः । दिनद्वये निशीथयोगमुपलक्ष्य उक्तं ब्रह्मवैवर्ते-- "वर्जनीया प्रयत्नेन सप्तमीसहिताऽष्टमी । सऋक्षापि न कर्त्तव्या सप्तमीसंयुताऽष्टमी ॥" इति । "अविद्धायां तु सञ्जयां जातो देवकिनन्दनः ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy