SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७४ तिथ्यर्क : अपरे रोहिणीयुक्ताप्यष्टमी नार्द्धरात्रगा तदा पूर्वेद्यू रोहिणी - रहितापि निशीथगैव ग्राह्या जन्माष्टमी व्रते । a " समं योगे तु रोहिण्या निशीथे राजसत्तम ! । समजायत गोविन्दो बालरूपी चतुर्भुजः ॥ तस्मात्तं पूजयेत्तत्र यथावित्तानुरूपतः ।” इति वह्निपुराणे निशीथस्यैव विशेष्यत्वेन कर्मकालत्वावगमात् । "कर्मणे यस्य यः कालस्तत्कालव्यापिनी तिथिः । तया कर्माणि कुर्वीत हासवृद्धी न कारणम् ||" इति वचनात् कर्मका लगाया एव तिथेर्ग्राह्यत्वाभिधानात् । जयन्तीते तु परा । परदिने जयन्तीयोगस्य सत्त्वात् । यस्मिन् वत्सरे जयन्तीयोगो नास्ति, तस्मिन्वत्सरे जन्माष्टमीव्रतमेकमेव प्रवर्त्तते । यदा पूर्वदिने जन्माष्टमीत्रते परदिने जयन्ती योगाज्जयन्तीव्रतं प्राप्नोति तदोपवासद्वयसमर्थन व्रतद्वयं कार्यम् । पारणा च द्वादश्युपवासपारणावत् । असमर्थेन जन्माष्टमीव्रतमेव कार्यम् । जयन्तीव्रतं तु प्रतिनिधिना भक्ष्यादिना वा सम्पादनीयम् । अत्र माधवस्त्वेतादृशविषये परेऽह्नि जयन्ती - योगस्य सत्वाज्जन्माष्टमीव्रतं न पृथक कार्यमित्याह- "यस्मिन्वर्षे जयन्त्याख्ययोगो जन्माष्टमी तदा । अन्तर्भूता जयन्त्यां स्यादृक्षयोगप्रशस्तितः ॥” इति । हेमाद्रिनिर्णयामृतादयः सर्वनिबन्धकारा अपि - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy