________________
तिथ्यर्कः "दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणीकला । रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम् ॥ उदये चाष्टमीकिश्चिन्नवमी सकला यदि । भवेत्तु बुधसंयुक्ता प्राजापत्यसंसंयुता ।।
अपि वर्षशतेनापि लभ्यते यदि वा न वा ॥" इत्यादिवचनैः परेऽह्नि रोहिणीसहिता निशीथास्पृगपि जन्माष्टमी व्रतेऽपि परैव कार्येत्याहुः। विस्तरस्तु प्रतिज्ञाभङ्गभीत्या न प्रदशितः । इदं व्रतं नित्यम् ।
"ये न कुर्वन्ति जानन्तः कृष्णजन्माष्टमीव्रतम् ।
ते भवन्ति नराः प्राज्ञ ! व्याला व्याघ्राश्च कानने ॥" इति स्कान्देऽनिष्ट श्रुतेः। जयन्तीव्रतं नित्यं काम्यश्च, प्रत्यवायफलविशेषयोः श्रवणात् । अकरणे प्रत्यवायः स्कान्दे स्मर्यते
"क्रियाहीनस्य मूर्खस्य परान्नं भुञ्जतोऽपि वा।
न कृतघ्नस्य लोकोऽस्ति जयन्तीविमुखस्य च ॥” इति । फलबोधक वाक्यं तु विष्णुधर्मोत्तरे जयन्ती प्रकृत्य श्रूयते--
"यहाल्ये यच्च कौमारे यौवने वार्धके तथा ।
बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिः ॥” इति दिक । अथ व्रतग्रहणपकारो विष्णुधर्मोत्तरे
"वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये । उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com