SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणीकला । रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम् ॥ उदये चाष्टमीकिश्चिन्नवमी सकला यदि । भवेत्तु बुधसंयुक्ता प्राजापत्यसंसंयुता ।। अपि वर्षशतेनापि लभ्यते यदि वा न वा ॥" इत्यादिवचनैः परेऽह्नि रोहिणीसहिता निशीथास्पृगपि जन्माष्टमी व्रतेऽपि परैव कार्येत्याहुः। विस्तरस्तु प्रतिज्ञाभङ्गभीत्या न प्रदशितः । इदं व्रतं नित्यम् । "ये न कुर्वन्ति जानन्तः कृष्णजन्माष्टमीव्रतम् । ते भवन्ति नराः प्राज्ञ ! व्याला व्याघ्राश्च कानने ॥" इति स्कान्देऽनिष्ट श्रुतेः। जयन्तीव्रतं नित्यं काम्यश्च, प्रत्यवायफलविशेषयोः श्रवणात् । अकरणे प्रत्यवायः स्कान्दे स्मर्यते "क्रियाहीनस्य मूर्खस्य परान्नं भुञ्जतोऽपि वा। न कृतघ्नस्य लोकोऽस्ति जयन्तीविमुखस्य च ॥” इति । फलबोधक वाक्यं तु विष्णुधर्मोत्तरे जयन्ती प्रकृत्य श्रूयते-- "यहाल्ये यच्च कौमारे यौवने वार्धके तथा । बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिः ॥” इति दिक । अथ व्रतग्रहणपकारो विष्णुधर्मोत्तरे "वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये । उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy