________________
तिथ्यर्क : कृष्णाष्टमीं देवीं नभश्चन्द्रसरोहिणीम् । श्रर्चयित्वापवासेन भोक्ष्येऽहमपरेऽहनि || एनसे मोक्षकामोऽस्मि यद् गोविन्द । त्रियोनिजम् । तन्मे मुञ्चति पाशं हिपतितं शोकसागरे ( ? ) ॥ जन्म मरणं यावद् यन्मया दुष्कृतं कृतम् । तत्प्रणाशय गोविन्द ! प्रसीद पुरुषोत्तम ! ।। " इति प्रातः श्लोकान् पठित्वा सङ्कल्पं कुर्यात् । ततोऽर्द्धरात्रे श्रीकृष्णं व्रतविधिना सम्पूज्य, जागरणं कृत्वा, अपरदिने पुनः सम्पूज्य, ब्राह्मणान् संभाज्य, पारणं कुर्यात् । तत्कालस्तु ब्रह्मवैवर्त्त -
“अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं कचित् । हन्यात् पुराकृतं कर्म उपवासार्जितं फलम् ॥ तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् । तस्मात्प्रयत्नतः कुर्यात् तिथिभान्ते च पारणम् ॥” इति । अन्यतरान्ते कार्यमित्यपि नारदीये
" तिथिनक्षत्रसंयोगे उपवासेो यदा भवेत् ।
पारणं तु न कर्तव्यं यावन्नैकस्य संक्षयः ॥ सांयोग
प्राप्ते कोऽपि वियुज्यते ।
तत्रैव पारणं कुर्यादेवं वेदविदो विदुः ||" इति ।
यदा तिथेर्नक्षत्रस्य वा रात्रावन्तो भवति, तदा रात्रौ पारणनिषेधाद् दिवैवाक्तं ब्रह्मवैवर्ते—
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com