________________
तिथ्यर्क :
"सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते ।" इति ।
नारायणीयधर्मप्रवृत्तौ -
"तिथ्यर्थे रात्रिपर्यन्तं स्यातां चेत्पारणं दिवा । यामत्रयेादर्ध्वगामिन्यां प्रातरेव हि पारणा || तिथियामत्रयादर्वाक् तिथिभान्ते च पारणम् ।” इति । इदं महानिबन्धेष्वसत्त्वान्निर्मूलमिति केचित् । कालादर्शे उत्सवान्तोऽप्युक्तः कालः
“तिथ्यन्ते चात्सवान्ते वा व्रती कुर्यात्तु पारणम् ।" इति । उत्सवान्ते ब्राह्मणभोजनाद्युत्सवान्ते । अयं चेोत्सवान्तः पारणकालस्त्वशक्तान् प्रति ज्ञेयः । प्राचां माधवादीनां मते तु -
"तिथ्यर्क्षयेोर्यदा छेदा नक्षत्रान्तमवाप्य वा । अर्द्धरात्रेऽथवा कुर्यात् पारणं त्वपरेऽहनि ॥
७७
न रात्रौ पारणं कुर्यादृते वै रोहिणीवतात् । तत्र निश्यपि कुर्वीत वर्जयित्वा महानिशाम् ॥”
इति वचनाभ्यां पारणं रात्रावेव कुर्यादिति । महानिशा स्वरूपमाह
वृद्धशातातप:
"महानिशा द्व े घटिके रात्रेर्मध्यमयामयेोः ।" इति ।
इदं च जयन्तीव्रतं कामनायां प्रतिमासं कार्यमित्युक्तं मदनरत्ने
ऽग्निपुराणे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com