________________
७८
तिथ्यर्क:
“प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति ।
मम चैवाखिलान् कामान् स संप्राप्नोत्यसंशयम् ॥” इति ।
तथा
"अनेन विधिना यस्तु प्रतिमासं नरेश्वर ! | करोति वत्सरं पूर्ण यावदागमनं हरेः || दद्याच्छय्यां स सम्पूर्णा गोभिरत्नैरलङ्कृताम् ।” इति | अत्र विशेषं ज्ञातुमिच्छता समयमयूखादये। द्रष्टव्याः । भाद्रशुक्लाष्टमी दूर्वाष्टमी । तत्र महेशदूर्वापूजा कार्या । तदुक्तं भविष्ये—
"ब्रह्मन् ! भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः । महेशं पूजयेद्यस्तु दुर्वया सहितं मुने ! ||" इति ।
इयं पूर्वा,
" श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धा प्रकर्त्तव्या शिवरात्रि र्बलेर्दिनम् ॥”
इति बृहदयमेनेाक्तत्वात् ।
"शुक्लाष्टमी तिथिर्या तु मासि भाद्रपदे भवेत् । दुर्वाष्टमी तु सा ज्ञेया नेोत्तरा सा विधीयते ॥” इति
भविष्य निषेधाच्च । यदा तु ज्येष्ठामूलयुक्ता, तदा परा; " मुहूते रौहिणेऽष्टम्यां पूर्वा वा यदि वा परा । दुर्वाष्टमी सदा त्याज्या ज्येष्ठामूलर्क्षसंयुता ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com