SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७८ तिथ्यर्क: “प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति । मम चैवाखिलान् कामान् स संप्राप्नोत्यसंशयम् ॥” इति । तथा "अनेन विधिना यस्तु प्रतिमासं नरेश्वर ! | करोति वत्सरं पूर्ण यावदागमनं हरेः || दद्याच्छय्यां स सम्पूर्णा गोभिरत्नैरलङ्कृताम् ।” इति | अत्र विशेषं ज्ञातुमिच्छता समयमयूखादये। द्रष्टव्याः । भाद्रशुक्लाष्टमी दूर्वाष्टमी । तत्र महेशदूर्वापूजा कार्या । तदुक्तं भविष्ये— "ब्रह्मन् ! भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः । महेशं पूजयेद्यस्तु दुर्वया सहितं मुने ! ||" इति । इयं पूर्वा, " श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धा प्रकर्त्तव्या शिवरात्रि र्बलेर्दिनम् ॥” इति बृहदयमेनेाक्तत्वात् । "शुक्लाष्टमी तिथिर्या तु मासि भाद्रपदे भवेत् । दुर्वाष्टमी तु सा ज्ञेया नेोत्तरा सा विधीयते ॥” इति भविष्य निषेधाच्च । यदा तु ज्येष्ठामूलयुक्ता, तदा परा; " मुहूते रौहिणेऽष्टम्यां पूर्वा वा यदि वा परा । दुर्वाष्टमी सदा त्याज्या ज्येष्ठामूलर्क्षसंयुता ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy