SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः ऐन्द्रः पूजिता दूर्वा इन्त्यपत्यानि नान्यथा । भर्तुरायुहरा मूले तस्मात्तां परिवर्जयेत् ॥" इति पुराणसमुच्चयात् । 'यदि वा परा' इत्युक्तं तत्पूर्वस्यां ज्येष्ठादियोगविषयम् । रोहिणे नवमो मुहूर्तः । दिनद्वये ज्येष्ठामूलयोगे पूर्वैव "कर्त्तव्या चैकभक्तेन ज्येष्ठामूलं यदा भवेत् । दूर्वामभ्यर्चयेद्भक्त्या न वन्ध्यं दिवसं नयेत् ॥" इति वचनात् । तदा भक्ष्यनियमोऽप्युक्तो भविष्ये "अनग्निपक्वमश्नीयादन्नं दधिफलं तथा । अक्षारलवर्ण ब्रह्मनश्नीयान्मधुनान्वितम् ॥” इति । अत्र विधिः मदनरत्ने "शुचौ देशे प्रजातायां दूर्वायां ब्राह्मणेत्तमः । स्थाप्य लिङ्ग ततो गन्धैः पुष्पैर्धपैः समर्चयेत् ॥ दध्यक्षतैर्द्विजश्रेष्ठ ! अर्घ्य दद्यात् त्रिलोचने । दूर्वाशमीभ्यां विधिवत्पूनयेच्छूद्धयान्वितः ॥" तत्र दूर्वापार्थना "त्वं दुर्नेऽमृतजन्मासि वन्दितासि सुरासुरैः । सौभाग्यं सन्तति देहि सर्वकार्यकरी भव ॥ यथा शाखापशाखाभिर्विस्तृतासि महीतले । तथा ममापि सन्तानं देहि त्वमजरामरम् ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy