SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ८० तिथ्यर्कः इदमगस्त्योदयकन्या च सति भाद्रकृष्णाष्टम्यां कार्य तत्र तन्निषेधात् । तदुक्तं समयमयूखे स्कन्दपुराणे "शुक्ले भाद्रपदे मासि दुर्वासंज्ञा तथाऽष्टमी । सिंहार्क एव कर्तव्या न कन्यार्के कदाचन ।। सिंहस्थे चोत्तमा सूर्येऽनुदिते मुनिसत्तमे ।" इति । प्रतापमार्तण्डेऽपि "अगस्त्यस्योदये या तु पूजयेदमृतोद्भवाम् । वैधव्यं पुत्रशोक च दश जन्मानि पञ्च च ॥ इति । अगस्त्युदयकालश्च दिवोदासीये उक्तः -- "उदेति याम्यां हरिसंक्रमाद्रवेरेकाधिके विंशतिमे ह्यगस्त्यः । स सप्तमेऽस्तं वृषसङ्क्रमाच प्रयाति गर्गादिभिरभ्यभाणि ॥" अस्यार्थ:-सिंहसङ्क्रान्तेविंशतितमेंऽशेऽतीते मुनिरुदेति, वृषसङ्क्रान्ते षष्ठंऽशेऽतीतेऽस्तं प्रयातीति। यदा भाद्रपदाधिकस्तदा तत्रैव कार्य नोत्कर्षः। तदुक्तं निर्णयदीपे स्कान्दे "अधिमासे तु सम्प्राप्ते नभस्य उदये मुनेः । अर्वाग् दूर्वाव्रतं कार्य परतो नैव कुत्रचित् ॥” इति । इदं व्रतं स्त्रीणां नित्यम् । "या न पूजयते दूर्वा मोहादिह यथाविधि । जन्मानि त्रीणि वैधव्यं लभते नात्र संशयः ॥ तस्मात्सम्पूजनीया सा प्रतिवर्ष वधूजनैः ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy