SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः ८१ इति चन्द्रप्रकाशे पुराणसमुच्चयेऽनिष्टश्रुतेः । अस्यामेव ज्येष्ठापूजनमुक्तं कालादर्श "भाद्र शुक्लाष्टमी ज्येष्ठानक्षत्रेण समन्विता। महती कीर्तिता तस्यां ज्येष्ठां देवीं प्रपूजयेत् ॥” इति । इयं नक्षत्रवशेन पूर्वा परा वा ग्राह्या, "अष्टम्यां वा नवम्यां वा ज्येष्ठा ऋक्षं यदा भवेत् । मध्याह्नादधिकं यत्र तत्र ज्येष्ठां प्रपूजयेत् ॥ मासि भाद्रपदे शुक्ल पक्षे ज्येष्ठःसंयुते । यस्मिन्कस्मिन् दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ।।" इति स्कान्दात् । तत्रापि मध्याह्नोर्ध्व ज्येष्ठायामेव पूजनम्, मध्याह्नादधिकमित्युक्तत्वात "यस्मिन् दिने भवेज्ज्येष्ठा मध्याह्रादूर्ध्वमण्वपि । तस्मिन् हविष्यं पूजा च न्यूना चेत्पूर्ववासरे ॥" इति वचनाच्च । दिनद्वये मध्याह्नो ज्येष्ठायोगेऽयोगे वा पूर्वा, "मैत्रेण संयुतां ज्येष्ठां यः करोति सदा गृही। धनधान्यसमृद्धिः स्यात् पुत्रस्त्रीसौख्यमेव च ॥ मूलेन संयुतां ज्येष्ठां ये कुर्वन्ति नराधिप !। प्राप्तशोका भवेयुस्ते स्त्रीणां वैधव्यमेव च ॥" . इति स्कान्दात् । "मासि भाद्रपदे शुक्लपक्षे ज्येष्ठसंसंयुता । रात्रिर्यस्मिन् दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy