________________
तिथ्यर्कः
८१ इति चन्द्रप्रकाशे पुराणसमुच्चयेऽनिष्टश्रुतेः । अस्यामेव ज्येष्ठापूजनमुक्तं कालादर्श
"भाद्र शुक्लाष्टमी ज्येष्ठानक्षत्रेण समन्विता।
महती कीर्तिता तस्यां ज्येष्ठां देवीं प्रपूजयेत् ॥” इति । इयं नक्षत्रवशेन पूर्वा परा वा ग्राह्या,
"अष्टम्यां वा नवम्यां वा ज्येष्ठा ऋक्षं यदा भवेत् । मध्याह्नादधिकं यत्र तत्र ज्येष्ठां प्रपूजयेत् ॥ मासि भाद्रपदे शुक्ल पक्षे ज्येष्ठःसंयुते ।
यस्मिन्कस्मिन् दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ।।" इति स्कान्दात् । तत्रापि मध्याह्नोर्ध्व ज्येष्ठायामेव पूजनम्, मध्याह्नादधिकमित्युक्तत्वात
"यस्मिन् दिने भवेज्ज्येष्ठा मध्याह्रादूर्ध्वमण्वपि ।
तस्मिन् हविष्यं पूजा च न्यूना चेत्पूर्ववासरे ॥" इति वचनाच्च । दिनद्वये मध्याह्नो ज्येष्ठायोगेऽयोगे वा पूर्वा,
"मैत्रेण संयुतां ज्येष्ठां यः करोति सदा गृही। धनधान्यसमृद्धिः स्यात् पुत्रस्त्रीसौख्यमेव च ॥ मूलेन संयुतां ज्येष्ठां ये कुर्वन्ति नराधिप !।
प्राप्तशोका भवेयुस्ते स्त्रीणां वैधव्यमेव च ॥" . इति स्कान्दात् ।
"मासि भाद्रपदे शुक्लपक्षे ज्येष्ठसंसंयुता । रात्रिर्यस्मिन् दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com