SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः इति वचनाच्च । पूजामन्त्री भविष्योत्तरे "पुत्रदारसमृद्ध्यर्थ लक्ष्याश्चैव विवृद्धये । अलक्ष्म्याश्च विनाशाय ज्येष्ठे ! त्वामर्चयाम्यहम् ॥" इति षोडशोपचारैः सम्पूज्य, प्रार्थनां कृत्वा नमस्कार कुर्यात् । तत्र मन्त्र: "ज्येष्ठाय ते नमस्तुभ्यं श्रेष्ठायै ते नमो नमः । शर्वाय ते नमस्तुभ्यं शाङ्क ते नमो नमः ॥" त्रिदिनसाध्यमिदं व्रतमित्युक्तं पृथ्वीचन्द्रोदये स्मृतिसंग्रहे-- "मैत्रेणावाहयेद्देवी ज्येष्ठायां तु प्रपूजयेत् । मूले विसर्जयेद् देवीं त्रिदिनं व्रतमुत्तमम् ॥" इति । अत्र योगविशेषेणाभिधा स्कान्दे "तत्राष्टम्यां यदा वारो भानोज्येष्ठलमेव च । नीलज्येष्ठेति सा प्रोक्ता दुर्लभा बहुकालिकी ॥" इति । अस्यामेव महालक्ष्मीव्रतारम्भः कार्यः। तदुक्तं मदनरत्ने स्कान्दे "मासि भाद्रपदे शुक्ल पक्षे ज्येष्ठायुताष्टमी । प्रारब्धव्यं व्रतं तत्र महालक्षया यतात्मभिः ॥" इति । :: पुराणसमुच्चयेऽपि "श्रियोर्चनं भाद्रपदे सिताष्टमीमारभ्य कन्यामगते च सूर्ये । समापयेत्तत्र तिथौ च यावत् सूर्यस्तु पूर्वार्द्धगतोऽयुवत्याः ॥” इति। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy