SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः सिंहसंक्रान्ती भाद्रपदसिताष्टमीमारभ्य लक्ष्म्यर्चनमारम्भणीयं तत्कन्यासंक्रान्तिपूर्वाः समापनीयमित्यर्थः । प्रथमारम्भोद्यापनयोरेवायं नियमः । इयं चाष्टमी निशीथोत्तरवर्तिनी ग्राह्या। तदुक्तं चन्द्रप्रकाशे स्मृत्यन्तरे "अर्द्धरात्रमतिक्रम्य वर्तते योत्तरा तिथिः । तदा तस्यां तिथौ कार्य महालक्ष्मीव्रतं सदा ॥” इति । अत्र महालक्ष्मीयात्रोक्ता काशीखण्डे "महालक्ष्म्यष्टमीं प्राप्य तत्र यात्राकृतां नृणाम् । सम्पूजितेह विधिवत् पद्मा सम न मुञ्चति ॥” इति । आश्विनकृष्णाष्टम्यां महालक्ष्मीव्रतसमाप्तिस्तु चन्द्रोदयव्यापिन्यां कार्या, "ततो निशीथे सम्प्राप्तेऽभ्युदितेऽमृतदीधितौ । कृत्वा तु स्थण्डिले पद्मं सषडङ्ग प्रपूजयेत् ॥" इति स्कान्दोक्तः । दिवसद्वये चन्द्रोदयकालसत्त्वेऽसत्त्वे वा सप्तमीयोगप्रशस्त्यात पूर्वैव, "पूर्वा वा परविद्धा वा ग्राह्या चन्द्रोदये सदा । त्रिमुहूर्तापि सा पूज्या परतश्चोर्ध्वगामिनी ॥" इति मदनरत्ने पुराणसमुच्चयवचनात् । अपरदिने चन्द्रोदयोत्तरं त्रिमुहर्ता चेत् परैव । इयमष्टकापि । तदुक्तं पाने Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy