________________
तिथ्यर्कः सिंहसंक्रान्ती भाद्रपदसिताष्टमीमारभ्य लक्ष्म्यर्चनमारम्भणीयं तत्कन्यासंक्रान्तिपूर्वाः समापनीयमित्यर्थः । प्रथमारम्भोद्यापनयोरेवायं नियमः । इयं चाष्टमी निशीथोत्तरवर्तिनी ग्राह्या। तदुक्तं चन्द्रप्रकाशे स्मृत्यन्तरे
"अर्द्धरात्रमतिक्रम्य वर्तते योत्तरा तिथिः ।
तदा तस्यां तिथौ कार्य महालक्ष्मीव्रतं सदा ॥” इति । अत्र महालक्ष्मीयात्रोक्ता काशीखण्डे
"महालक्ष्म्यष्टमीं प्राप्य तत्र यात्राकृतां नृणाम् ।
सम्पूजितेह विधिवत् पद्मा सम न मुञ्चति ॥” इति । आश्विनकृष्णाष्टम्यां महालक्ष्मीव्रतसमाप्तिस्तु चन्द्रोदयव्यापिन्यां कार्या,
"ततो निशीथे सम्प्राप्तेऽभ्युदितेऽमृतदीधितौ ।
कृत्वा तु स्थण्डिले पद्मं सषडङ्ग प्रपूजयेत् ॥" इति स्कान्दोक्तः । दिवसद्वये चन्द्रोदयकालसत्त्वेऽसत्त्वे वा सप्तमीयोगप्रशस्त्यात पूर्वैव,
"पूर्वा वा परविद्धा वा ग्राह्या चन्द्रोदये सदा । त्रिमुहूर्तापि सा पूज्या परतश्चोर्ध्वगामिनी ॥"
इति मदनरत्ने पुराणसमुच्चयवचनात् । अपरदिने चन्द्रोदयोत्तरं त्रिमुहर्ता चेत् परैव । इयमष्टकापि । तदुक्तं पाने
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com