________________
तिथ्यर्कः "वसुनामा पिता कन्यां शशापानुग्रहाय च । पौष्टपद्यष्टकाभूयः पितृलोके भविष्यसि ॥
आयुरारोग्यमैश्वर्य सर्वकामफलपदा ।" इति । एतस्याः पद्मसंज्ञोक्ता जातुकर्येन
"शङ्ख प्राहुरमावास्यां क्षीणसोमां द्विजोत्तमाः।
अष्टका च भवेत्पद्म तत्र दत्तं तथाक्षयम् ॥” इति । आश्विनशुक्लाष्टमी महाष्टमी। तत्र भद्रकालीपूजा कार्या। तदुक्तं ब्रह्मपुराणे
"तत्राऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।
प्रादुर्भूता महाघोरा योगिनीकोटिभिता ॥" तत्र-आश्विनशुक्ले । .
"अतोत्र पूजनीया सा तस्मिन्नहनि मानवैः ॥" इति । इयं दुर्गापवासपूजादौ नवमीयुक्ता ग्राह्या,
"शरन्महाष्टमी पूज्या नवमीसंयुता सदा।
सप्तमीसंयुता नित्यं शोकसन्तापकारिणी ॥" इति मदनरत्ने स्मृतिसंग्रहे उक्तत्वात् । अत्र त्रिमुहूर्त्तन्यूनापि सप्तमीवेधहेतुः,
"सप्तमीशल्यसंयुक्ता वर्जनीया सदाऽष्टमी ।
स्तोकापि सा महापुण्या यस्यां सूर्योदयो भवेत् ॥" इति मदनरत्नोद्धृतपुराणात् । स्तोका खल्पा । साऽष्टमी ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com