SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "वसुनामा पिता कन्यां शशापानुग्रहाय च । पौष्टपद्यष्टकाभूयः पितृलोके भविष्यसि ॥ आयुरारोग्यमैश्वर्य सर्वकामफलपदा ।" इति । एतस्याः पद्मसंज्ञोक्ता जातुकर्येन "शङ्ख प्राहुरमावास्यां क्षीणसोमां द्विजोत्तमाः। अष्टका च भवेत्पद्म तत्र दत्तं तथाक्षयम् ॥” इति । आश्विनशुक्लाष्टमी महाष्टमी। तत्र भद्रकालीपूजा कार्या। तदुक्तं ब्रह्मपुराणे "तत्राऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनीकोटिभिता ॥" तत्र-आश्विनशुक्ले । . "अतोत्र पूजनीया सा तस्मिन्नहनि मानवैः ॥" इति । इयं दुर्गापवासपूजादौ नवमीयुक्ता ग्राह्या, "शरन्महाष्टमी पूज्या नवमीसंयुता सदा। सप्तमीसंयुता नित्यं शोकसन्तापकारिणी ॥" इति मदनरत्ने स्मृतिसंग्रहे उक्तत्वात् । अत्र त्रिमुहूर्त्तन्यूनापि सप्तमीवेधहेतुः, "सप्तमीशल्यसंयुक्ता वर्जनीया सदाऽष्टमी । स्तोकापि सा महापुण्या यस्यां सूर्योदयो भवेत् ॥" इति मदनरत्नोद्धृतपुराणात् । स्तोका खल्पा । साऽष्टमी । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy