SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: "मूलेनापि हि संयुक्ता सदा त्याज्याऽष्टमी बुधैः । लेशमात्रेण सप्तम्या अपि स्याद्यदि दूषिता || " इति निर्णयामृताच्च । यानि च- ८५ "महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी । सप्तम्या तु युता कार्या मूलेन तु विशेषतः ॥ " एवमादीनि सप्तमीविद्धाविधायकानि तानि वचनानि परदिने - ष्टम्यभावविषयाणि । यानि च "सप्तम्यामुदिते सूर्ये परतश्चाष्टमी भवेत् । तत्र दुर्गोत्सवं कुर्यात् न कुर्यादपरेऽहनि || दुर्भिक्षं तत्र जानीयान्नवम्यां यत्र पूज्यते ।” इत्यादीनि परदिनेऽष्टमीलाभेऽपि सप्तमीविद्धाविधायकानि तानि सूर्योदयकाले नवम्यभावविषयाणि, “यदा सूर्योदये न स्यान्नवमी चापरेऽहनि । तदाऽष्टमीं प्रकुर्वीत सप्तम्या सहितां नृप ।।" इति स्मृतिसंग्रहादिति मदनरत्नः । इयं भौमयुक्ता प्रशस्तेत्युक्तं मदनरत्ने स्मृत्यन्तरे "अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत । कुजवारो भवेत्तत्र पूजनीया प्रयत्नतः ।। " इति । अथ कार्तिकशुक्लाष्टमी गोष्ठाष्टमी । तस्यां गोपूजनाद्युक्तं निर्ण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy