________________
तिथ्यर्कः यामृते कूर्मपुराणे
"शुक्लाष्टमी कार्तिके तु स्मृता गोष्ठाष्टमी बुधैः । तत्र कुर्याद् गवां पूजां गोग्रास गोप्रदक्षिणाम् ॥
गवानुगमनं कार्य सर्वान् कामानभीप्सता ।" इति । मार्गकृष्णाष्टमी भैरवाष्टमी । अस्यां भैरवं सम्पज्य विघ्न निवारयेदित्युक्तं काशीखण्डे
"तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः । विलोक्य कालराजानं निरयादुद्धरेत् पितृन् । कृत्वा च विविधां पूजां महासम्भारविस्तरैः।
नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत् ॥” इति । उपोषणं जागरणं चोक्तं तत्रैव--
"मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ।
उपोष्य जागरं कुर्वन्सर्वपापैः प्रमुच्यते ॥" इति । उपोषणाङ्गत्वेन नार्घ्यदानं कार्यमित्युक्तं शिवरहस्ये
"उपोषणस्याङ्गभूतमर्घ्यदानमिह स्मृतम् ।" इति । अत्रोपवासी जागरणश्चेति विशिष्टं प्रधानं तस्याहोरात्रसाध्यत्वेनेयमष्टम्यहोरात्रव्यापिनी ग्राह्या,
"अहोरात्रव्रतं यच्च एकमेकतिथा गतम् ।
तस्यामुभययोगिन्यामाचरेत्तद् व्रतं व्रती ॥" इति स्मतेः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com