SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः यामृते कूर्मपुराणे "शुक्लाष्टमी कार्तिके तु स्मृता गोष्ठाष्टमी बुधैः । तत्र कुर्याद् गवां पूजां गोग्रास गोप्रदक्षिणाम् ॥ गवानुगमनं कार्य सर्वान् कामानभीप्सता ।" इति । मार्गकृष्णाष्टमी भैरवाष्टमी । अस्यां भैरवं सम्पज्य विघ्न निवारयेदित्युक्तं काशीखण्डे "तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः । विलोक्य कालराजानं निरयादुद्धरेत् पितृन् । कृत्वा च विविधां पूजां महासम्भारविस्तरैः। नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत् ॥” इति । उपोषणं जागरणं चोक्तं तत्रैव-- "मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ । उपोष्य जागरं कुर्वन्सर्वपापैः प्रमुच्यते ॥" इति । उपोषणाङ्गत्वेन नार्घ्यदानं कार्यमित्युक्तं शिवरहस्ये "उपोषणस्याङ्गभूतमर्घ्यदानमिह स्मृतम् ।" इति । अत्रोपवासी जागरणश्चेति विशिष्टं प्रधानं तस्याहोरात्रसाध्यत्वेनेयमष्टम्यहोरात्रव्यापिनी ग्राह्या, "अहोरात्रव्रतं यच्च एकमेकतिथा गतम् । तस्यामुभययोगिन्यामाचरेत्तद् व्रतं व्रती ॥" इति स्मतेः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy