________________
तिथ्यर्कः यदा तु दिनेद्वये सायाह्न तदा पूर्वैव । तदुक्तं समयमयूखे ब्रह्मवैवर्ते
"रुद्रव्रतेषु सर्वेषु कर्तव्या सम्मुखी तिथिः ।” इति ।
इदमपि रुद्रव्रतम्, कालभैरवस्य रुद्रावतारत्वात् । यत्तु सिन्धुकारज्येष्ठेरुक्तम्- भैरवसन्निधावित्युक्तर्जागरणोपवासादिक काश्यामेव कर्तव्यं तत्प्रमाणाभावादुपेक्ष्यम् । पारणं तु प्रातरेव, ___“यामत्रयोर्ध्वगामिन्यां प्रातरेव हि पारणा ।" इति माधवलिखितस्मृतेः। अत्र पूर्णिमान्तो मासो ग्राह्यः, ___"कार्तिके कृष्णपक्षे तु अष्टम्यां भैरवोऽभवत् ।" इति शिवरहस्ये कार्तिकग्रहणात् ।
पूर्णिमान्तपोषकष्णाष्टम्यष्टकेत्युक्तमाश्वलायनेन । हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति । हेमन्तः शिशिर इति ऋतुसंज्ञा । सा चोक्ता श्रुतौ___ "वसन्ता ग्रीष्मो वर्षा शरद्धेमन्तः शिशिर इति षड् वा ऋतवः" इति । तत्र वसन्ततुश्चैत्रवैशाखात्मकः, "मधुश्च माधवश्च वासन्तिकावृतू" इति श्रुतेः । एवं वसन्तादिऋतुक्रमेण मार्गशीर्षपोषात्मको हेमन्ततः । माघफाल्गुनात्मकः शिशिरर्तुः । स द्वधा सौरचान्द्रश्चेति । तत्र सौरो विष्णुधर्मोत्तरे दर्शितः
"सौरमासहये राम ! ऋतुरित्यभिधीयते ।" इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com