SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः चान्द्रस्तु बहवृचः श्रुत्या दर्शितः-- "सूर्याचन्द्रमसौ प्रकृत्य विश्वान्यन्यो भुवनाभिचष्ट ऋतूनन्यो विदधज्जायते पुनः ।" इति । अत्र पुनर्जायत इति लिङ्गादनुकल्पकत्वं चन्द्रस्य प्रतीयते । अनयोर्विनियोगस्त्रिकाण्डमण्डने दर्शित:__ "श्रौतस्मार्तक्रियाः सर्वाः कुर्याच्चान्द्रमसर्तुषु । तदलाभे तु सौरर्तुष्विति ज्योतिर्विदां मतम् ॥” इति । तथा च हेमन्तशिशिरयोश्चर्तुष्वसितपक्षेष्वष्टम्यश्चतस्रोऽप्यष्टकाः । आसु श्राद्धमुक्तं याज्ञवल्क्येन "अमावास्याष्टकाद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्य ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः॥" इति दिक्। पौषशुक्लाष्टमी बुधवारयुक्ता महाभद्रेत्युक्तं निर्णयामते भविष्योत्तरे-- "पुष्ये मासि यदा देवि ! शुक्लाष्टम्यां बुधो भवेत् । तदा तु सा महापुण्या महाभद्रेति कीर्त्तिता ॥ तस्यां स्नानं जपो होमस्तपणं विषभोजनम् ।" कार्यमिति शेषः । इयमेव भरणीयुक्ता जयन्तीत्युक्तं तत्रैव "पौषे मासि यदा देवि ! अष्टम्यां शुक्लपक्षके । नक्षत्रं जायते पुण्य यल्लोके रौद्रमुच्यते ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy