SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क : तदा तु सा महापुण्या जयन्ती अष्टमी शुभा । तस्यां स्नान तथा दानं जपो होमश्च तर्पणम् । सर्वं कोटिगुणं देवि ! कृतं भवति कृत्स्नशः ।” इति । रौद्रम् - भरणी । तदुक्तं वराहमिहिरे" रौद्राणि पूर्वाभरणी पित्र्याणीति । " माघशुक्लाष्टम्यां भीष्मतर्पणं श्राद्धं चोर हेमाद्रौ पाद्म ८६ "माघे मासि सिताष्टम्यां सतिलं भीष्मतर्पणम् । श्राद्धं च ये नराः कुर्युस्ते स्युः सन्ततिभागिनः ॥” इति । मन्त्रस्तु भारते -- “भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः । ग्राभिरद्भिग्वामोतु पुत्रपौत्रोचितां क्रियाम् ॥ वैयाघ्रपाद गोत्राय साङ्कृत्यप्रवराय च । पुत्राय ददाम्येतज्जलं भीष्माय वर्मणे || वसुनामावताराय शन्तनेारात्मजाय च । अर्घ्यं ददामि भीष्माय श्रावाल्यब्रह्मचारिणे ॥ ब्राह्मणाद्याश्च ये वर्णा दद्युर्भोष्माय नो जलम् । संवत्सरं तं तेषां पुण्यं नश्यति तत्क्षणात् ॥” इति पद्मवचनात् तर्पणं नित्यम् । श्राद्धं तु "ते स्युः सन्ततिभागिनः" इति पूर्वोक्तवाक्यशेषात् काम्यम् । अत्र तर्पणे सपितृकारणामप्यधिकारः, "जीवत्पितापि कुवत तर्पणं यमभीष्मयाः ।" इति समयमयूखे पाद्मात् । फाल्गु १२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy