________________
तिथ्यर्कः नशुक्लाष्टमी बहुलाष्टमी। तस्यां लक्ष्मीपूजा सीतापूजा च कार्या । तदुक्तं निर्णयामते ब्रह्मपुराणे
'फाल्गुने बहुलाष्टम्यां सुस्नातैश्च स्वलङ्कतैः । लक्ष्मीः सीता च सम्पूज्या गन्धमाल्यादिभिः सदा॥ ततः प्रदोषसमये दीपा देयाः सहस्रशः।
दत्तशिष्टं तदा भोज्यं भक्षितव्यञ्च बन्धुभिः ॥" इति । इयं प्रदोषव्यापिनी ग्राह्या, तत्रैव दीपदानायुक्तत्वात् । दिनद्वये तद्व्याप्तावव्याप्तौ वा परैव,
"शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी ।
पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसंयुता ॥" इति नैगमात् । अथ सामान्यतः शुक्लाष्टम्यां बुधवारयोगा भवति तदैकभक्तवतं कार्यमित्युक्त निर्णयामृते भविष्योत्तरे
"यदा यदा सिताष्टम्यां बुधवारो भवेद् यदि । तदा तदा हि सा ग्राह्या एकभक्ताशने नृप ! ॥
बुधाष्टमी तु सम्पूर्णा यथोक्तफलदायिनी ।" इति । अष्टमी भामेन सिद्धा, गुरुवारेण विरुद्धा । योगिन्यस्यामीशान्याम् । इत्यष्टमी निर्णीता। अथ नवमी निर्णीयतेसा तु पूर्वा, 'वसुरन्ध्रयोः' इति युग्मवाक्यात्,
अष्टमी नवमीविद्धा कर्त्तव्या फलकातिभिः । न कुर्यात्रवमीं तात ! दशम्यां तु कदाचन ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com