SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विय्यर्कः इति ब्रह्मवैवर्ताच्च । अथ चैत्रशुक्लनवमी श्रीरामनवमी । अस्यां रामोत्पत्तिरुक्ता हेमाद्रावगस्त्यसंहितायाम् "चैत्रे नवम्यां प्राक्पक्षे दिवा पुण्ये पुनर्वसी । उदये गुरुगारांश्वोः सेोच्चस्थे ग्रहपञ्चके । मेपे पूपणि सम्पाप्ते लग्ने कर्कटकाहये । आविरासीत्सकलया कौशल्यायां परः पुमान् । तस्मिन् दिने तु कर्त्तव्यमुपवासव्रतं सदा । रात्रौ जागरणं कुर्याद्रघुनाथपुरो भुवि ॥" इति । तथा तत्रैव "चैत्रे मासे नवम्यां तु जातो रामः स्वयं हरिः । पुनर्वस्तृक्षसंयुक्ता सा तिथिः सर्वकामदा । श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका ।" इति । इयं मध्याह्नव्यापिनी ग्राह्या, "चैत्रशुद्धा तु नवमी पुनर्वसुयुता यदि। सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥" इति तत्रैवोक्तः । इयं पूर्वेद्यरेव मध्याह्नव्यापिनी चेत्पूर्वा, कर्मकालव्याप्तः । दिनद्वये तद्व्याप्तावव्याप्तावेकदेशसमव्याप्तौ वोत्तरैव । तदुक्तं माधवीयेगस्त्यसंहितायाम्-- "नवमी चाष्टमी विद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यां च दशम्यां पारणा भवेत् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy