________________
तिथ्यर्क:
११-६
अत्र शान्तिः श्रीमातामहकृतशान्तिमयूखे द्रष्टव्या । मकरसंक्रांती
विशेषो विष्णुधर्मोत्तरे
"उत्तरे त्वयने विमा वस्त्रदानं महाफलम् । तिलपूर्वमनट्वाहं दत्वा रोगैः प्रमुच्यते ||" इति । विष्णुरहस्येऽपि -
" तस्यां कृष्णतिलैः स्नानं कार्यं चोद्वर्तनं तिलै: । तिला देयाश्च विप्रेभ्यः सर्वदेवात्तरायणे || तिलांश्च भक्षयेत्पुण्यान् हातव्याश्च तथा तिलाः । तिलतैलेन दीपाश्च देयाः शिवगृहे शुभाः ||" इति । इदं च दानादिकं पुण्यकाले कार्यम् । पुण्यकालस्तु सामान्यत उक्तो देवलेन
"संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितेक्षणैः । तदयोगादप्यधश्चादर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ॥” इति । अत्रास्त्रिंशद्धव त्रिंशदिति केचित् । तत्त्वं तूर्द्धा वमधश्चेति मिलित्वात्रिंशदिति । तदुक्तं देवीपुराणे
“अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।" इति । भोगो विहितस्नानाद्यनुष्ठानम् । शातातपः
"या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः ।" इति अथ विशेष: स्कान्दे
"कुलीरे विशदेवाद्या मकरे विंशदुत्तराः ।" इति । कुलीरः कर्कटः । बौधायनः
――
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com