SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११८ तिथ्यर्कः वस्त्रानपानदानानि मिथुने विहितानि तु । घृतधेनुपदानं तु कर्कटे परिशस्यते ॥ ससुवर्ण पात्रदानं सिंहे च विहितं सदा । कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च ॥ तुलाप्रवेशे धान्यानां बीजानामेव चोत्तमम् । कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च" ॥ कीटप्रवेशे वृश्चिकमवेशे । "धनुःप्रवेशे वस्त्राणां पानानां च महाफलम् । झषप्रवेशे दारूणां दानमग्नेस्तथैव चे । कुम्भप्रवेशे दानं तु गवां मृदुतृणस्य च । मीनप्रवेशे ह्यम्लानमाल्यानामपि चोत्तमम्" ॥ दानान्यथैतानि मया द्विजेन्द्राः ! प्रोक्तानि काले तु नरः प्रदत्वा । प्राप्नोति कामं मनसस्त्वभीष्टं तस्मात्प्रशंसन्ति हि कालदानम् ।। अयने विषुवे च विशेष उक्तो बृहद्वसिष्ठेन "अयने विषुवे चैव त्रिरात्रोपोषितः पुमान् । स्नात्वाऽयोर्चयते भानुं सर्वकामफलं लभेत्" ॥ सिंहसंक्रान्तौ विशेषोद्भुतसारे नारदेनोक्तः "भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते । मरणं तस्य निर्दिष्टं षडभिर्मासैन संशयः ॥ ततः शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत्" ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy