SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः ११७ "मन्दा ध्रुवेषु विज्ञेया मृदा मन्दाकिनी तथा । क्षिप्रे ध्वाक्षीं विजानीयादुने घोरा प्रकीतिता ॥ चरैर्महादरी ज्ञेया करैऋ क्षेश्च राक्षसी । मिश्रिता चैव निर्दिष्टा मिश्रितज्ञैश्च संक्रमे" ॥ इति । ध्रुवाणि रोहिण्युत्तरात्रयम् । मृदूनि रेवतीचित्रानुराधामृगाः । क्षिप्राण्यश्विनीहस्तपुष्याः । उग्राणि पूर्वात्रयं भरणी मघा च । चराणि धनिष्ठापुनर्वसुश्रवणस्वातिशततारकाः । राणि ज्येष्ठाद्रामूलानि । मिश्रितानि विशाखाकृत्तिकाः । वारभेदेऽपि तान्येव देवीपुराणे "सूर्ये घोरा विधौ ध्वाङ्क्षी भौमवारे महोदरी । बुधे मन्दाकिनी नाम मन्दा सुरपुरोहिते ॥ मिश्रिता शुक्रवारे स्याद् राक्षसी स्याच्छनैश्चरे" । इति । अत्र स्नानं नित्यम्, "संक्रान्तौ यानि दानानि हव्यकव्यानि दातृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।। रविसंक्रमण प्राप्ते न स्नायाद् यस्तु मानवः । सप्त जन्मानि रोगी स्याद् निर्धनश्चैव जायते ॥" इति शातातपीयऽनिष्टश्रुतेः ।। मेषादिसंक्रमणे दानविशेषमाह विश्वामित्रः "मेषसंक्रमणे भानोर्मेषदानं महाफलम् । वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy