SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११६ तिथ्यर्कः "मन्वादिकं तैर्थिकञ्च कुर्यान्मासद्वयेऽपि च ।" इति । इदं श्राद्धं पिण्डरहितं कार्यमित्युक्तं कालादर्श"विषुवायनसङक्रान्तिमन्वादिषु युगादिषु । विहाय पिण्डनिर्वापं सर्वं श्राद्धं समाचरेत् ।।" इति । विषुवसंक्रान्तिश्राद्धमयनसंक्रान्तिश्राद्धश्च । विषुवसंक्रान्ती द्वे । अयनसंक्रान्ती च द्वे। अत्र प्रसङ्गाल्लब्धावसरेण सक्रान्तयो निर्णीयन्ते। नागरखण्डे "रवेः संक्रमणं राशा संक्रान्तिरिति कथ्यते । स्नानदानजपश्राद्धहोमादिषु महाफलम् ॥” इति । संक्रान्तिसंज्ञा उक्ता वसिष्ठेन "अयने द्वे विषुवे द्वे चतस्रः षडशीतयः । चतस्रो विष्णुपद्यश्च संक्रान्त्यो द्वादश स्मृताः ।। झषकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषौ तयोर्मध्ये ततोऽपराः ॥" तयोर्मध्येऽयनविषुवतोर्मध्ये । तथा "कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः । षडशीतिमुखी प्रोक्ता षडशीतिगुणा फले । वृषवृश्चिककुम्भेषु सिंहे चैव यदा रविः । एतद्विषुपदं नाम विषुवादधिक फलम्"।। इति । ऋक्षभेदेनासां नामान्तराण्युक्तानि ज्योति शास्त्रे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy