SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: "श्वयुकशुक्ल नवमीकार्त्तिके द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता । आषाढस्यापि दशमी माघमासस्य सप्तमी । श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ॥ कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठी पञ्चदशी सिता । मन्वन्तरादयश्चैता दत्तस्याऽक्षयकारकाः ||" इति । ११५ अत्र तथाशब्दाच्छुक्कपदं द्वादशीतृतीययोरन्येति, अपिशब्दात् सितेति पदस्य दशम्यामप्यन्वयः । मण्डूकप्लुतिन्यायेन माघसप्तम्यामपि तस्यान्वयः कार्यः । एता मन्वादयः शुक्लपक्षे पौर्वा ह्निक्यः, कृष्णपक्षे आपराह्निक्यो ग्राह्याः, " " पूर्वाह्न तु सदा ग्राह्याः शुक्ला मनुयुगादयः । दैवे कर्मणि पित्र्ये च कृष्णे चैवापराह्निकाः ॥” इति गारुडात् । स्कान्दे " मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः । व्यतीपाते वैतौ च तत्कालव्यापिनी क्रिया ॥” इति । क्रिया स्नानदानादि कर्म । अत्रापि श्राद्धमुक्तं तत्रैव" कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु । हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत् ॥” इति । तच्च श्राद्धं मलमासे सति मासद्वयेऽपि कार्यम् । तदुक्तं स्मृतिचन्द्रिकायाम् - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy