________________
११४
तिथ्यर्कः दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते ॥ रोगस्थो मुच्यते रोगादापद्भ्यश्च प्रमुच्यते । द्विषदभ्यो बन्धनाद्यैश्च भयेभ्यश्च प्रमुच्यते ।। सर्वान् कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते । इमं स्तवं गृहे यस्तु लेखयित्वा विनिक्षिपेत् ॥ नाग्निचौरभयं तत्र पापेभ्योऽपि भयं नहि । ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । संहरेत्रिविधं पापं बुधवारेण संयुता ॥ तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ सेोऽपि तत्फलमानोति गङ्गां सम्पूज्य यत्नतः । पूर्वोक्तेन विधानेन यत्फलं सम्प्रकीर्तितम् ।। यथा गौरी तथा गङ्गा तस्माद् गौर्यास्तु पूजने । विधिों विहितः सम्यक् सोऽपि गङ्गाप्रपूजने । यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा । उमा यथा तथा गङ्गा चतूरूपं न भिद्यते ॥ विष्णुरुद्रान्तरं यच्च श्रीगौोरन्तरं तथा ।
गङ्गागार्य्यन्तरं चैव यो ब्रूते मूढधीस्तु सः ॥" इति काशीखण्डे दशहरास्तोत्रं सम्पूर्णम् ॥ आषाढशुक्लदशमी मन्वादिः। मन्वादयस्तूक्ता मात्स्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com