SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२० तिथ्यर्क: "पुण्यं विषुवति प्रोक्तं दशपूर्वा दशापराः । " इति । स्कान्दे " षडशीतिमुखेऽतीते नाड्यः पञ्चदश स्मृताः ।" इति । वसिष्ठः- “ पुण्यकालो विष्णुपद्याः प्राक पश्चादपि षोडशः ।" इति । यदा पूर्व भगिनी संक्रान्तिः सूर्योदयेोत्तरमुत्तरयोगिनी सूर्यास्तादव्यवधानेन द्वित्रिपलव्यवधानेन वा पूर्वं भवति तदा पुण्यकालमाह वृद्धवसिष्ठः “ह्नि संक्रमणे कृत्स्नमहः पुण्यं प्रकीर्तितम्" । इति । रात्रौ संक्रमणे विशेषमाह स एव - “रात्रौ संक्रमणे भानोर्दिनार्द्ध स्नानदानयो: " । इति । गोभिलोsपि - “रात्रौ संक्रमणे भानोर्दिवा कुर्यात्तु तत्क्रियाम् । पूर्वस्मात् परता वापि प्रत्यासत्तेश्च तत्फलम् ॥ अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरि क्रिया । ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात् प्रहरद्वयम् ।। पूर्णे चेदर्द्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटी ॥” इति । रात्रावयने विशेषो भविष्योत्तरे " मिथुनात् कर्क संक्रान्तिर्यदि स्यादंशुमालिनः । प्रभाते वा निशीथे वा कुर्यादहनि पूर्वतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy