SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १२१ कामुकं तु परित्यज्य झर्ष संक्रमते रविः । प्रदोषे वाऽर्द्धरात्रं वा स्नानं दानं परेऽहनि ॥ अलि बौधायनोऽपि "अर्द्धरात्रे तवं वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिन ग्राह्य यावनोदयते रविः ॥ अस्तं गते सवितरि मकरं याति भास्करः । प्रदोषे वार्द्धरात्रे वा स्नानं दानं परेऽहनि ॥” इति । वृद्धगाग्र्यापि "यद्यस्तमयवेलायां मकरं याति भास्करः। प्रदोषे वार्द्धरात्रे वा स्नानं दानं परेऽहनि ॥” इति । यस्तु-"राहुदर्शनसंक्रान्तिविवाहात्ययद्धिषु । स्नानदानादिकं कार्य निशि काम्यव्रतेषु च ॥" इति योगिवचनाद् रात्रिसंक्रमणे निश्यपि स्नानदानादिविधिः-तस्य देशाचारेण व्यवस्था बोध्या । हेमाद्रौ ब्रह्मपुराणे "शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः । महाजया तदा सा वै सप्तमी भास्करप्रिया ॥ स्नानं दानं तपो होमः पितृदेवादिपूजने । सर्वं कोटिगुणं प्रोक्तं तपनेन महोजसा ।। यस्त्वस्यां मानवो भक्तया घृतेन स्नापयेद्रविम् । सेोऽश्वमेधफलं प्राप्य ततः सूर्यपुरं व्रजेत् ॥ १६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy