________________
तिथ्यर्कः
१२१ कामुकं तु परित्यज्य झर्ष संक्रमते रविः ।
प्रदोषे वाऽर्द्धरात्रं वा स्नानं दानं परेऽहनि ॥ अलि बौधायनोऽपि
"अर्द्धरात्रे तवं वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिन ग्राह्य यावनोदयते रविः ॥ अस्तं गते सवितरि मकरं याति भास्करः ।
प्रदोषे वार्द्धरात्रे वा स्नानं दानं परेऽहनि ॥” इति । वृद्धगाग्र्यापि
"यद्यस्तमयवेलायां मकरं याति भास्करः।
प्रदोषे वार्द्धरात्रे वा स्नानं दानं परेऽहनि ॥” इति । यस्तु-"राहुदर्शनसंक्रान्तिविवाहात्ययद्धिषु ।
स्नानदानादिकं कार्य निशि काम्यव्रतेषु च ॥"
इति योगिवचनाद् रात्रिसंक्रमणे निश्यपि स्नानदानादिविधिः-तस्य देशाचारेण व्यवस्था बोध्या । हेमाद्रौ ब्रह्मपुराणे
"शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः । महाजया तदा सा वै सप्तमी भास्करप्रिया ॥ स्नानं दानं तपो होमः पितृदेवादिपूजने । सर्वं कोटिगुणं प्रोक्तं तपनेन महोजसा ।। यस्त्वस्यां मानवो भक्तया घृतेन स्नापयेद्रविम् । सेोऽश्वमेधफलं प्राप्य ततः सूर्यपुरं व्रजेत् ॥ १६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com