SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १२२ तिथ्यर्कः पयसा स्नापयेद् यस्तु भास्करं भक्तिमान्नरः । विमुक्तः सर्वपापेभ्यो याति सूर्यसलोकताम् ॥” इति । अत्र मकरसंक्रान्तेरुत्तरमृतुत्रयात्मकमुत्तरायणम् । कर्कसंक्रान्तेरुत्तरमृतुत्रयात्मकं दक्षिणायनं चोक्त रत्नमालायाम् "शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदामरम् । भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतां च सा ॥" इति । ऋतुरत्र सौरात्मको ज्ञेयः, "सौरतु त्रितयं प्रदिष्टमयनं च" इति दीपिकायामुक्तः । सौरतु स्तूक्तो रत्नमालायाम्"मृगादिराशिद्वयभानुभोगात् षडर्तवः स्युः शिशरो वसन्तः । ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः इति । मृगो मकरः । उत्तरायणे गृहप्रवेशादिकर्म प्रशस्तमुक्तं ज्योतिःशास्त्रे "गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धदैवम् । सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे च ॥ तथैव सत्यवतः "देवतारामवाप्यादिप्रतिष्ठोदङमुखे रवी । दक्षिणाशामुखे कुर्वन्न तत्फलमवाप्नुयात् ॥” इति । नारसिंहाधुग्रदेवतानां दक्षिणायनेऽपि प्रतिष्ठा कार्या । तदुक्तं वैखानससंहितायाम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy