________________
१२३
तिथ्यर्कः "मातृभैरववाराहनारसिंहत्रिविक्रमाः ।
महिषासुरहन्धी च स्थाप्या वै दक्षिणायने ॥” इति । प्रतिष्ठायां विशेषस्तु मनीषिभिर्मत्कृतप्रतिष्ठापद्धता द्रष्टव्य इति दिक् ।
अथाश्विनशुक्लदशमी विजयदशमी । अस्यामपराह्णव्यापिन्यामपराजितां देवीं सम्पूज्य सीमोल्लङ्घनं कार्यम् । आश्विनशुक्लपक्षं प्रक्रम्योक्तं स्कान्दे
"दशम्यां तु नरैः सम्यक पूजनीयाऽपराजिता ।
ऐशानी दिशमाश्रित्य अपराह्न प्रयत्नतः ॥” इति । तत्रैव
"आश्विनस्य सिते पक्षे दशमी नवमीयुता । सीमानं क्रमयेत्तस्यां मुहूर्ते विजयाभिधे ॥
दशम्येकादशीयुक्ता न कार्या जयकाक्षिभिः ।" इति । विजयकाल उक्तो धर्मचिन्तामणी
"आश्विनस्य सिते पक्ष दशम्यां तारकोदये ।
स कालो विजया ज्ञेयः सर्वकार्यार्थसिद्धये ॥” इति । रत्नकोशेऽपि
"ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुद्भिन्नतारकः ।
विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः ॥” इति । इयं तिथिद्वैधे यद्युत्तरैव श्रवणयुक्ता तदाऽपराजितापूजनसीमोल्लखनादा सैव कार्या, श्रवणयोगस्याधिक्यात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com