SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १२३ तिथ्यर्कः "मातृभैरववाराहनारसिंहत्रिविक्रमाः । महिषासुरहन्धी च स्थाप्या वै दक्षिणायने ॥” इति । प्रतिष्ठायां विशेषस्तु मनीषिभिर्मत्कृतप्रतिष्ठापद्धता द्रष्टव्य इति दिक् । अथाश्विनशुक्लदशमी विजयदशमी । अस्यामपराह्णव्यापिन्यामपराजितां देवीं सम्पूज्य सीमोल्लङ्घनं कार्यम् । आश्विनशुक्लपक्षं प्रक्रम्योक्तं स्कान्दे "दशम्यां तु नरैः सम्यक पूजनीयाऽपराजिता । ऐशानी दिशमाश्रित्य अपराह्न प्रयत्नतः ॥” इति । तत्रैव "आश्विनस्य सिते पक्षे दशमी नवमीयुता । सीमानं क्रमयेत्तस्यां मुहूर्ते विजयाभिधे ॥ दशम्येकादशीयुक्ता न कार्या जयकाक्षिभिः ।" इति । विजयकाल उक्तो धर्मचिन्तामणी "आश्विनस्य सिते पक्ष दशम्यां तारकोदये । स कालो विजया ज्ञेयः सर्वकार्यार्थसिद्धये ॥” इति । रत्नकोशेऽपि "ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुद्भिन्नतारकः । विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः ॥” इति । इयं तिथिद्वैधे यद्युत्तरैव श्रवणयुक्ता तदाऽपराजितापूजनसीमोल्लखनादा सैव कार्या, श्रवणयोगस्याधिक्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy