SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: आषाढ्यां वा नरो भक्तया चातुर्मास्यादितं व्रतम् ॥ आषाढशुक्ल द्वादश्यां पैौर्णमास्यामथापि वा ।" इति । अत्र व्रतारम्भेऽस्तादिदोषेो नास्ति, " न शैशवं न मैौढ्य च शुक्रगुवर्न वा तिथेः । खण्डत्वं चिन्तयेज्जातु चातुर्मास्यव्रते विधौ ।” इति गार्ग्यवचनात् । व्रतानि तु भविष्ये "श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा । दुग्धमाश्वयुजे मासि कार्तिके द्विदलं त्यजेत् ॥” इति । चत्वारीमानि नित्यानीत्युक्तं स्कान्दे चातुर्मास्यप्रकरणे" चत्वार्येतानि नित्यानि चतुराश्रमवर्णिनाम् । प्रथमे मासि कर्त्तव्यं नित्यं शाकवतं नरैः ॥ १४३ द्वितीये मासि कर्त्तव्यं दधिव्रतमनुत्तमम् । पयोव्रतं तृतीये तु चतुर्थे द्विदलं त्यजेत् ॥” इति । त्यजेद् वर्जनसङ्कल्पं कुर्यादित्यर्थः । शाकं दशधेत्याह क्षीरस्वामी"मूलपत्र करीराग्रफलकाण्डाधिरूढकाः । त्वक् पुष्पं कवचञ्चेति शाकं दशविधं स्मृतम् ॥” इति । ‘करीरम्’ शिम्बी। ‘काण्डम्’ नालम् । 'अधिरूढम्' अङ्कुरम् | 'कवचम् ' उरगकवचवत्सूक्ष्मा त्वगेव । द्विदलान्युक्तानि स्कान्दे " माषमुद्गमसूराश्च चणकाश्च कुलत्थकाः || निष्पावा राजमाषाश्च यढको द्विदलं स्मृतम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy