SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १४४ तिथ्यर्कः केचिदुत्पत्तिसमये यस्य दलद्वयं तद् द्विदलमित्याहुस्तत्र मूलवाक्यं गवेषणीयम् । अथ चातुर्मास्ये वानि स्कान्दे“वार्षिकांवचतुरो मासान् प्रसुप्ते वै जनार्दने । मञ्चखट्वादिशयनं वर्जयेद्भक्तिमानरः ।। अनृतौ वर्जयेद्भायां मांसं मधु परोदनम् । पटोलं मूलकं चैव वृन्ताकं च न भक्षयेत् ॥ अभक्ष्यं वर्जयेइरान्मसूरं सितसर्षपम् ।। राजमाषान् कुलत्थांश्च आशुधान्यश्च सन्त्यजेत् ॥" तथा "वृन्ताकं च कलिङ्गं च विल्वादुम्बरभिःसटाः । उदरे यस्य जीर्यन्ते तस्य दूरतरो हरिः ॥" तथा "निष्पावराजमाषांश्च मसूरं सन्धितानि च । वृन्ताकञ्च कलिङ्गश्च सुप्ते देवे विवर्जयेत् ॥ विशेषाददरी धात्री कूष्माण्ड तिन्तिणीं त्यजेद् । जीर्ण धात्रीफलं ग्राह्यं कथञ्चित् कायशेधनम् ॥” इति । अथ काम्यानि हेमाद्रौ भविष्ये "स्त्री वा नरो वा मद्भक्तो धर्मार्थ सुदृढव्रतः । गृह्णीयान्नियमानेतान् दन्तधावनपूर्वकान् ॥ तेषां फलानि वक्ष्यामि तत्कतणां पृथक् पृथक् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy