SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४५ तिथ्यर्कः मधुस्वरो भवेद्राजा पुरुषो गुडवर्जनात् ।। तैलस्य वर्जनाद्राजन् ! सुन्दराङ्गः प्रजायते । कटुतैलपरित्यागाच्छत्रुनाशमवाप्नुयात् ।। योगाभ्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् । ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते ।। घृतत्यागाच्च लावण्यं सर्वस्निग्धतनुर्भवेत् । फलत्यागाच मतिमान् बहुपुत्रश्च जायते । शाकपकाशनाद्भोगी अपकादमलो भवेत् । भूमौ प्रस्तरशायी च विप्रो मतिवरो भवेत् ॥ एकान्तरोपवासेन ब्रह्मलोके महीयते । पादाभ्यङ्गपरित्यागाच्छिरोभ्यङ्गविवर्जनात् ॥ दीप्तिमान दीप्तकरण यक्षो द्रव्यपतिर्भवेत् । दधिदुग्धतक्रनियमो गोभक्तो गोपतिर्भवेत् ।। इन्द्रातिथित्वमानोति स्थालीपाकस्य भक्षणात् । लभते सन्तति दीर्घा तैलपकविवर्जनात् ॥ धारणान्नखरोम्णां च गङ्गास्नानफलं लभेत् । मौनव्रती भवेद् यस्तु तस्याऽऽज्ञाऽस्खलिता भवेत् ।। भूमौ भुङ्क्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् । प्रदक्षिणाशतं यस्तु करोति स्तुतिपाठकः ।। हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत् । अयाचितेन प्राप्नोति पुत्रान् धानशेषतः ॥ १६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy