________________
तिथ्यर्कः
१४२
"मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत् ।
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥" इति मोहचूडोत्तरोक्तः, अधिमासे न कार्यमित्यनुवृत्ती, ___ "ईशानस्य बलिर्विष्णोः शयनं परिवर्तनम्" इति कालादशक्तिश्च । स्वापविधिर्भविष्ये
"महापूजां ततः कृत्वा देवदेवस्य चक्रिणः ।
जातीकुसुममालाभिर्मन्त्रेणानेन पूजयेत् ।। मन्त्रस्तु
त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम् ।
विबुद्धे च विबुध्येत प्रसन्नो मे भवाऽच्युत ! ॥” इति । वामनपुराणे तु द्वादश्यां शयनमुक्तम्
"एकादश्यां जगत्स्वामिन् ! शयनं परिकल्पयेत् । शेषाहिभोगपर्यः कृत्वा सम्पूज्य केशवम् ॥ अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः ।
लब्ध्वा पीताम्बरधरं स्वस्ति निद्रां समानयेत् ॥” इति । स्वापस्तु मतद्वयेऽपि रानावेव करणीयः। वचनन्त्वग्रे वक्ष्यते । अत्रैव पूजां विधाय चातुर्मास्यव्रतारम्भ उक्तो भारते
"आषाढे तु सिते पक्षे एकादश्यामुपोषितः ।
चातुर्मास्यव्रतं कुर्याद्यकिश्चिनियमो नरः ॥" इति । अन्येऽपि कालाः सनत्कुमारवराहाभ्यामुक्ताः
"एकादश्यां तु गृह्णीयात्सङ्क्रान्तौ कर्कटस्य वा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com