________________
अत्र नियमा अपि तत्रैव
" तुलसी कृष्णगौराख्या तयाऽभ्यर्च्य मधुद्विषम् । विशेषेण तु वैशाखे नरो नारायणेो भवेत् ॥” इति ।
मदनरत्ने स्कन्दपुराणे
तिथ्यर्क:
प्रपा कार्या च वैशाखे देवे देया गलन्तिका ।
उपानद्व्यजनच्छत्रसूक्ष्मवासांसि चन्दनम् ॥ जलपात्राणि देयानि तथा पुष्पगृहाणि च ।। "
दानमुक्तं स्कान्दे
इत्यादीनि दानान्यपीति संक्षेपः ।
ज्येष्ठशुक्लैकादशी निर्जलेत्युच्यते । अस्यां कुम्भादि
"ज्येष्ठे मासि नृपश्रेष्ठ ! या शुक्लैकादशी भवेत् । निर्जलं समुपायात्र जलकुम्भान् सशर्करान् ॥ प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ । " इति । हेमाद्री व्यासः -
“स्नाने चाचमनं चैव वर्जयित्वोदकं बुधः । उपयुञ्जीत नैवान्यद् व्रतभङ्गोऽन्यथा भवेत् ॥” इति ।
श्राषाढशुक्लैकादशी शयनी,
"एकादश्यां तु शुक्कायामाषाढे भगवान् हरिः । भुजङ्गशयने शेते क्षीरार्णवजले सदा ||"
इति हेमाद्रौ ब्राह्मात् । इदं च शयनमधिमा से न कार्यम्,
१४१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com