SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अत्र नियमा अपि तत्रैव " तुलसी कृष्णगौराख्या तयाऽभ्यर्च्य मधुद्विषम् । विशेषेण तु वैशाखे नरो नारायणेो भवेत् ॥” इति । मदनरत्ने स्कन्दपुराणे तिथ्यर्क: प्रपा कार्या च वैशाखे देवे देया गलन्तिका । उपानद्व्यजनच्छत्रसूक्ष्मवासांसि चन्दनम् ॥ जलपात्राणि देयानि तथा पुष्पगृहाणि च ।। " दानमुक्तं स्कान्दे इत्यादीनि दानान्यपीति संक्षेपः । ज्येष्ठशुक्लैकादशी निर्जलेत्युच्यते । अस्यां कुम्भादि "ज्येष्ठे मासि नृपश्रेष्ठ ! या शुक्लैकादशी भवेत् । निर्जलं समुपायात्र जलकुम्भान् सशर्करान् ॥ प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ । " इति । हेमाद्री व्यासः - “स्नाने चाचमनं चैव वर्जयित्वोदकं बुधः । उपयुञ्जीत नैवान्यद् व्रतभङ्गोऽन्यथा भवेत् ॥” इति । श्राषाढशुक्लैकादशी शयनी, "एकादश्यां तु शुक्कायामाषाढे भगवान् हरिः । भुजङ्गशयने शेते क्षीरार्णवजले सदा ||" इति हेमाद्रौ ब्राह्मात् । इदं च शयनमधिमा से न कार्यम्, १४१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy