________________
तिथ्यर्कः
१४० इत्यानीय, किञ्चिद्देवाय दत्वा प्रार्थयेत् ।
"आमन्त्रितोऽसि देवेश ! पुराणपुरुषोत्तम ! ।
अतस्त्वां पूजयिष्यामि सानिध्यं कुरु केशव ! ॥" इत्थमामन्त्र्य, पुष्पाञ्जलिं दत्वा, उर्वरितं दमनकं सम्पूज्य प्रातः पूजार्थं स्थापयेत् । अस्यां वैशाखस्नानारम्भ उक्तः पाझे
"मधुमासस्य शुक्लायामेकादश्यामुपोषितः । पञ्चदश्यां च भो वीर ! मेषसङ्क्रमणेऽपि वा । वैशाखे स्नाननियमं ब्राह्मणानामनुज्ञया ।
मधुसूदनमभ्यर्च्य कुर्यात्सङ्कल्पपूर्वकम् ॥” इति । सङ्कल्पमन्त्रस्तत्रैव
"वैशाखं सक मास मेषसङ्कमणे रवः । प्रातः सनियमं स्नास्ये प्रीयतां मधुसूदनः ।। मधुहन्तुः प्रसादेन ब्राह्मणानामनुग्रहात् । निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम् ।। माधवे मेषगे भानौ मुरारे ! मधुसूदन ! ।
प्रातःस्नानेन मे नाथ ! फलदो भव पापहन् ! ॥” इति । स्नानार्थं तीर्थान्युक्तानि तत्रैव
"मेषसङ्क्रमणे भानौ माधवे मासि यत्नतः । महानद्यां नदीतीर्थे नदे सरसि निझरे ॥ देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये । दीपिकाकूपवापीषु नियतात्मा हरिं स्मरन् ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com