SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १४० इत्यानीय, किञ्चिद्देवाय दत्वा प्रार्थयेत् । "आमन्त्रितोऽसि देवेश ! पुराणपुरुषोत्तम ! । अतस्त्वां पूजयिष्यामि सानिध्यं कुरु केशव ! ॥" इत्थमामन्त्र्य, पुष्पाञ्जलिं दत्वा, उर्वरितं दमनकं सम्पूज्य प्रातः पूजार्थं स्थापयेत् । अस्यां वैशाखस्नानारम्भ उक्तः पाझे "मधुमासस्य शुक्लायामेकादश्यामुपोषितः । पञ्चदश्यां च भो वीर ! मेषसङ्क्रमणेऽपि वा । वैशाखे स्नाननियमं ब्राह्मणानामनुज्ञया । मधुसूदनमभ्यर्च्य कुर्यात्सङ्कल्पपूर्वकम् ॥” इति । सङ्कल्पमन्त्रस्तत्रैव "वैशाखं सक मास मेषसङ्कमणे रवः । प्रातः सनियमं स्नास्ये प्रीयतां मधुसूदनः ।। मधुहन्तुः प्रसादेन ब्राह्मणानामनुग्रहात् । निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम् ।। माधवे मेषगे भानौ मुरारे ! मधुसूदन ! । प्रातःस्नानेन मे नाथ ! फलदो भव पापहन् ! ॥” इति । स्नानार्थं तीर्थान्युक्तानि तत्रैव "मेषसङ्क्रमणे भानौ माधवे मासि यत्नतः । महानद्यां नदीतीर्थे नदे सरसि निझरे ॥ देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये । दीपिकाकूपवापीषु नियतात्मा हरिं स्मरन् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy