________________
तिथ्यर्कः अथ प्रकृतमनुसंधीयते ।
एकादश्यां भोजने प्रायश्चित्त स्मृत्यन्तरे"अर्के पर्वद्वये रात्रौ चतुर्दश्यष्टमी दिवा ।।
एकादश्यामहोरात्रं भुक्तवा चान्द्रायणं चरेत् ॥” इति । अथ चैत्रशुक्लैकादश्यां दमनेनार्चयित्वा विष्णुरान्दोलनीयः । तदुक्तं निर्णयामृते ब्रह्मपुराणे
"चैत्रमासस्य शुक्लायामेकादश्यान्तु वैष्णवैः । आन्दोलनीयो देवेशः सलक्ष्मीको महोत्सवे ॥
दमनेनार्चयित्वाऽथ रात्री जागरणं चरेत् ।" इति । अथ दमनकानयनप्रकार उक्तोऽगस्त्यसंहितायाम्
"प्रातः स्नात्वा समभ्यर्च्य देवेशं विधिवन्नरः । उपवासेन देव ! त्वां तोषयामि जगत्पते ! ॥ कामक्रोधादयो ह्यते न मे स्युतघातकाः । एवं विज्ञाप्य देवेशं गुरुपादौ प्रणम्य च ॥ गच्छेदमनकाराममेकादश्यां सुशोभितम् । क्रमेणाऽऽगत्य तत्रैव पूजयेच्चन्दनादिना ॥ नेष्यामि रामपूजार्थमिति सम्पार्थ्य तन्नमेत् । उत्पाट्य पञ्चगव्येन प्रोक्ष्य प्रक्षाल्य वारिणा ॥
धौतेन वाससाऽऽच्छाद्य निधाय पटले नवे । पटले वंशादिपात्रे ।
घण्टापुरुषसूक्तादिस्वनैः स्वगृहमानयेत् ॥"
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat