SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः अथ प्रकृतमनुसंधीयते । एकादश्यां भोजने प्रायश्चित्त स्मृत्यन्तरे"अर्के पर्वद्वये रात्रौ चतुर्दश्यष्टमी दिवा ।। एकादश्यामहोरात्रं भुक्तवा चान्द्रायणं चरेत् ॥” इति । अथ चैत्रशुक्लैकादश्यां दमनेनार्चयित्वा विष्णुरान्दोलनीयः । तदुक्तं निर्णयामृते ब्रह्मपुराणे "चैत्रमासस्य शुक्लायामेकादश्यान्तु वैष्णवैः । आन्दोलनीयो देवेशः सलक्ष्मीको महोत्सवे ॥ दमनेनार्चयित्वाऽथ रात्री जागरणं चरेत् ।" इति । अथ दमनकानयनप्रकार उक्तोऽगस्त्यसंहितायाम् "प्रातः स्नात्वा समभ्यर्च्य देवेशं विधिवन्नरः । उपवासेन देव ! त्वां तोषयामि जगत्पते ! ॥ कामक्रोधादयो ह्यते न मे स्युतघातकाः । एवं विज्ञाप्य देवेशं गुरुपादौ प्रणम्य च ॥ गच्छेदमनकाराममेकादश्यां सुशोभितम् । क्रमेणाऽऽगत्य तत्रैव पूजयेच्चन्दनादिना ॥ नेष्यामि रामपूजार्थमिति सम्पार्थ्य तन्नमेत् । उत्पाट्य पञ्चगव्येन प्रोक्ष्य प्रक्षाल्य वारिणा ॥ धौतेन वाससाऽऽच्छाद्य निधाय पटले नवे । पटले वंशादिपात्रे । घण्टापुरुषसूक्तादिस्वनैः स्वगृहमानयेत् ॥" www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy