SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३८ तिथ्यर्कः "हविष्येषु यवा मुख्यास्तदनु ब्रीहयः स्मृताः । माषकोद्रवगौरादीन् सर्वाभावेऽपि वर्जयेत् ॥” इति । भविष्योत्तरेऽपि "हैमन्तिकं सितास्विन्नं धान्यमुद्रा यवास्तिलाः । कलायक गुनीवारा वास्तूकं हिलमोचिका । पष्टिका कालशाकं च मूलक केमुकेतरत् । कन्दः सैन्धवसामुद्रे लवणे मधुसर्पिषी ॥ पयोऽनुधृतसारं च पनसाम्र हरीतकी । पिप्पली जीरकञ्चैव नागरङ्गश्च तिन्तिणी ॥ कदली लवली धात्री फलान्यगुडमैक्षवम् । अतैलपकं मुनयो हविष्याणि प्रचक्षते ॥" हेमन्ते भवं हैमन्तिक वस्तु । तदप्यनिषिद्धं ग्राह्यम् । सितास्विन्नं सितया वालुकया स्विन्नं भर्जितम् । धान्यं तण्डुलाः । कलाया: सतीनकाः । “कलायस्तु सतीनकः" इत्यमरः । लोके मटरधान्यमुच्यते । वास्तूक वथुवेति प्रसिद्धः शाकः । हिलमोचिका हिलसा। कालशाकः कालकम्, मरिचेति हिन्दीभाषायां प्रसिद्धम् । केमुक केमुन्ना मूलकविशेषः। नागरङ्गं नारिङ्गम्, 'ऐरावतो नागरगो नारिङ्गो भूमिजम्बुके' इत्यमरात् । यत्तु नारङ्ग शुङ्गीति व्याख्यातं सिन्धौ तत्र मूलं मृग्यम् । लवली हर्पोरेवडीति लोके प्रसिद्धा । अतैलपकमित्युक्तद्रव्याणां विशेषणम् । अत्र पयःसर्पिषी गव्ये इत्यस्तु प्रसङ्गागतम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy