________________
तिथ्यर्कः
१३७ "शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् ।
सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥” इति । काम्यन्तु तत्रैव स्कन्दपुराणे
"पितणां गतिमन्विच्छन् कृष्णायां समुपोषयेत् ।" इति । दिनक्षये पुत्रवद्गृहस्थेनोपवासो न कार्यः। तदाह
पितामह :
"एकादश्यां दिनक्षये उपवास करोति यः ।
तस्य पुत्रा विनश्यन्ति मघायां पिण्डतो यथा ॥" इति । दिनक्षय उक्तः पाझे___"द्वौ तिथ्यन्तावेकवारे यस्मिन् सः स्यादिनक्षयः ।" इति । वसिष्ठः
"एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा ।
तदा दिनक्षयः प्रोक्तस्तत्र साहसिकं फलम् ॥" उपवासनिषेधेऽनुकल्प उक्तो वायवीये
"उपवासनिषेधे तु भक्ष्यं किञ्चित्प्रकल्पयेत् ।
न दुष्यत्युपवासेनोपवासफलं लभेत." भक्ष्याण्यपि तत्रैव
"नक्तं हविग्यानमनोदनं वा फलं तिलाः क्षीरमथाम्बु चाज्यम् ।
यत्पञ्चगव्यं यदि वापि वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च।।" इति । अत्रोपस्थितत्वाद् हविष्याण्युच्यन्ते परिशिष्टे
१८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com