SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोष्या द्वादशी तत्र यदीच्छेत्परमां गतिम् ॥ इति । पूर्वदिने दशमीसंयेोगात्परदिने वृद्धयभावाच्च लुप्तेति निर्देश: । विद्धायामुभयाधिक्ये तु परैव । १३६ शुद्धायामुभयाधिक्ये परा चेत् क्रियते, तदा विद्धायां किमु वक्तव्यम्, इति कैमुतिकन्यायात् । विद्धायामनुभयाधिक्ये तु विद्धामेवोपोषयेत्, “यदि दैवात्तु संसिद्ध्येदेकादश्यां तिथित्रयम् । तत्र क्रतुशतं पुण्यं पारणे द्वादशी भवेत् ॥” इति नारदीयात् । इदं व्रतम्, " न करोतीह या मूढ एकादश्यामुपोषणम् । स नरो नरकं याति रौरवं तमसावृतम् ॥” इति सनत्कुमारवचनान्नित्यम् । काम्यञ्चोक्तं कर्मे -- “यदीच्छेद् विष्णुसायुज्यं श्रियं सन्ततिमात्मनः । एकादश्यां न भुञ्जीत पक्षयेोरुभयोरपि ॥” इति । काम्यस्यास्यासमापने दोष उक्तो परार्के “परिगृह्य व्रतं सम्यगेकादश्यामुपोषणम् । न समापयते यस्तु स याति नरकं नरः ||" इति । नैमित्तिककाम्यावुपवासैौ तु कृष्णायामपि विधेयैौ । तत्र नैमित्तिकं माधवीये स्मृत्यन्तरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy