SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ एकादशीत्यर्थः । तिथ्यर्क : "अत्रोपवासेा विहितञ्चतुर्थाश्रमवर्णिनाम् । विधवायाश्च तत्रैव परता द्वादशी न चेत् ॥” इति । गृहस्थयतिपदे सकामनिष्कामपरे ज्ञेये, " सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । पूर्वामुपवसेत्कामी निष्कामस्तूत्तरां वसेत् ॥” इति मार्कण्डेयवचनात् । द्वादश्याधिक्ये नारदः— १३५ " न चेदेकादशी विष्णैौ द्वादशी परतः स्थिता । उपोष्यैकादशी तत्र यदीच्छेत्परमं पदम् ॥” इति । उभयाधिक्ये तु सर्वैः परा कार्या । तदुक्तं गारुडे" सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । सर्वैरेवोत्तरा कार्य परतो द्वादशी यदि ॥" पद्मपि "विद्धापि च विद्धा स्यात्परता द्वादशी यदि । " अनुभयाधिक्ये तूत्तरायापक प्रमाणाभावात् पूर्वैव । अथ विद्धापि चतुर्विधा । तत्र विद्धैकादशी मात्राधिक्ये गृहिण विद्धायामेवेापवासः । तदुक्तं प्रचेतसा "एकादशी विवृद्धा चेच्छुक्ले कृष्णे विशेषतः । उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद् गृही ||" इति । विद्धायां द्वादशीमात्राधिक्ये तु परेद्युरुपवासः । तदुक्तं ब्रह्मवैवर्ते व्यासेन— Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy