SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १३४ तिथ्यर्कः "पूर्णाप्येकादशी त्याज्या वर्द्धते द्वादशी यदि । द्वादश्यां लङ्घन कार्य द्वादश्यामेव पारणा ॥" इति । उभयाधिक्ये भृगुः "सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोष्या द्वितीया तु परतो द्वादशी यदि ॥" इति वैष्णवान प्रति एकादशीनिर्णयः। अथ पञ्चरात्राद्यागमदीक्षाहीनाः स्मार्ता इति व्यवह्रियन्ते, तेषामेकादशी निर्णीयते । सापि द्वेधा, शुद्धा सूर्योदयकाले दशमीसत्त्वेन विद्धा च, "सूर्योदयस्पृशा ह्येषा दशम्या गर्हिता सदा।" इति स्मृतेः; "अतिवेधादयः पूर्वे ये वेधास्तिथिषु स्मृताः। सर्वेऽप्यवेधा विज्ञेया वेधः सूर्योदये स्मृतः ॥" इति स्मृत्यन्तरवचनाच्च । तत्र शुद्धा चतुर्दा-केवलैकादश्यधिका, केवलद्वादश्यधिका, उभयाधिका, अनुभयाधिका चेति । तत्रैकादश्याधिक्ये स्कान्दे "प्रथमेऽहनि सम्पूर्णा व्याप्याहोरात्रसंयुता । द्वादश्यां तु तथा तात ! दृश्यते पुनरेव सा । पूर्वा कार्या गृहस्थैश्च यतिभिश्चोत्तरा विभो !" इति । एतच्च परे द्युादश्यभावे विज्ञेयम् । तथा च स्मृत्यन्तरे "पुनः प्रभातसमये घटिकैका यदा भवेत् ।” Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy